|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.204. अध्यायः 204
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
कृष्णेनाश्चर्यकथनं प्रार्थितैर्मुनिगणैर्नारदंप्रति तच्चोदना॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
श्रीभगवानुवाच।
भवतां दर्शनादेव प्रीतिरभ्यधिका मम।
भवन्तस्तु तपःसिद्धा भवन्तो दिव्यदर्शनाः॥ 13-204-1(89238)
सर्वत्र गतिमन्तश्च ज्ञानविज्ञानभाविताः।
गत्यागतिज्ञा लोकानां सर्वे निर्दूतकल्मषाः॥ 13-204-2(89239)
तस्माद्भवद्भिर्यत्किंचिदृष्टं वाऽप्यथवा श्रुतम्।
आश्चर्यभूतं लोकेषु तद्भवन्तो ब्रुवन्तु मे॥ 13-204-3(89240)
युष्माभिः कथितं यत्स्यात्तपसा भावितात्मभिः
तस्यादमृतसंकाशं वाङ्मधुश्रवणे स्पृहा॥ 13-204-4(89241)
रागद्वेषवियुक्तानां सततं सत्यवादिनाम्।
श्रद्धेयं श्रवणीयं च वचनं हि सतां भवेत्॥ 13-204-5(89242)
तत्संयोगं हितं मेऽस्तु न वृथा कर्तुमर्हथ।
भवतां दर्शनं तस्मात्सफलं तु भवेन्मम॥ 13-204-6(89243)
तदहं सज्जनमुखान्निःसृतं जनसंसदि।
कथयिष्याम्यहं बुद्ध्या बुद्धिदीपकरं नृणाम्॥ 13-204-7(89244)
तदन्ये वर्धयिष्यन्ति पूजयिष्यन्ति चापरे।
वात्सल्यविगताश्चान्ये प्रशंसन्ति पुरातनाः॥ 13-204-8(89245)
एवं ब्रुवति गोविन्दे श्रवणार्थं महर्षयः।
वाग्भिः साञ्जलिमालाभिरिदमूचुर्जनार्दनम्॥ 13-204-9(89246)
अयुक्तमस्मानेवं त्वं वाचा वरद भाषितुम्।
त्वच्छासनमुखाः सर्वे त्वदधीनपरिश्रमाः॥ 13-204-10(89247)
एवं पूजयितुं चास्मान्न चैवार्हसि केशव।
त्वत्तस्त्वन्यं न पश्यामो यल्लोके ते न विद्यते।
दिवि वा भुवि वा किञ्चित्तत्सर्वं हि त्वया ततम्॥ 13-204-11(89248)
न विद्महे वयं देव कथ्यमानं तवान्तिके।
एवमुक्तो हृषीकेशः सस्मितं चेदमब्रवीत्॥ 13-204-12(89249)
अहं मानुषयोनिस्थः साम्प्रतं मुनिपुङ्गवाः।
तस्मान्मानुषवद्वीर्यं मम जानीत सुव्रताः।
भवद्भिः कथ्यमानं च अपूर्वमिव तद्भवेत्॥ 13-204-13(89250)
भीष्म उवाच। 13-204-14x(7444)
एवं संचोदिताः सर्वे केशवेन महात्मना।
ऋषयश्चानुवर्तन्ते वासुदेवस्य शासनम्॥ 13-204-14(89251)
ततस्त्वृषिगणाः सर्वे नारदं देवदर्शनम्।
अमन्यन्त बुधा बुद्ध्या समर्थं तन्निबोधने॥ 13-204-15(89252)
ऋषिरुग्रतपाश्चायं केशवस्य प्रियोऽधिकम्।
पुराणज्ञश्च वाग्मी च कारणैस्तं च मेनिरे॥ 13-204-16(89253)
सर्वे तदर्हणं कृत्वा नारदं वाक्यमब्रुवन्॥ 13-204-17(89254)
भवता तीर्थयात्रार्थं चरता हिमवद्गिरौ।
दृष्टं वै यत्तदाश्चर्यं श्रोतॄणां परमं प्रियम्॥ 13-204-18(89255)
अतस्त्वमविशेषेण हितार्थं सर्वमादितः।
प्रियार्थं केशवस्यास्य स भवान्वक्तुमर्हति॥ 13-204-19(89256)
तदा संयोजितः सर्वैर्ऋषिभिर्नारदस्तदा।
प्रणम्य शिरसा विष्णुं सर्वलोकहिते रतम्।
समुद्वीक्ष्य हृषीकेशं वक्तुमेवोपचक्रमे॥ 13-204-20(89257)
ततो नारायणसुहृन्नारदो वदतांवरः।
शङ्करस्योमया सार्धं संवादमनुभाषत॥ ॥ 13-204-21(89258)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुरधिकद्विशततमोऽध्यायः॥ 204 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|